स आह—भो मित्र !अस्ति समुद्रान्तरे सुरम्ये पुलिन-प्रदेशेऽस्मद्-गृहम् æ तन्मम पृष्ठमारूधः सुखेनाकृत-भयो गच्छ ।
सोऽपि तच्छ्रुत्वा सानन्दमाह-भद्र ! यद्येवं तत्किं विलम्ब्यते । त्वर्यताम् । एषोऽहं तव पृष्ठामारूढः ।
तथानुष्ठितेऽगाधे जलधौ गच्छन्तं मरकमालोक्य भय-त्रस्त-मना वानरः प्रोवाच-भ्रातः ! शनैः शनैर्गम्यताम् । जल-कल्लोलैः प्लाव्यते मे शरीरम् ।
तदाकर्ण्य मकरश्चिन्तयामास-असावगाधं जलं प्राप्तो मे वशः सञ्जातः । मत्-पृष्ठ-गतस्तिल-मात्रमपि चलितुं न शक्नोति । तस्मात्कथयाम्यस्य निजाभिप्रायम्, येनाभीष्ट-देवता-स्मरणं करोति । आह च-मित्र, त्वं मया वधाय समानीतो भार्या-वाक्येन विश्वास्य । तत्स्मर्यतामभीष्ट-देवता ।
स आह—भ्रातः ! किं मया तस्यास्तवापि चापकृतं येन मे वधोपायश्चिन्तितः ?
मकर आह—भोः ! तस्यास्तावत्तव हृदयस्यामृतमय-फल-रसास्वादन-मृष्टस्य भक्षणे दोहदः सञ्जातः । तेनैतदनुष्ठितम् ।
प्रत्युत्पन्न-मतिर्वानर आह—भद्र ! यद्येवं तत्किं त्वया मम तत्रैव न व्याहृतम् ? येन स्व-हृदयं जम्बू-कोटरे सदैव मया सुगुप्तं कृतम् । तद्भ्रातृ-पत्न्या अर्पयामि । त्वयाहं शून्य-हृदयोऽत्र कस्मादानीतः ?
तदाकर्ण्य मकरः सानन्दमाह-भद्र ! यद्येवं तदर्पय मे हृदयम् । येन सा दुष्ट-पत्नी तद्भक्षयित्वानशनादुत्थिष्ठति । अहं त्वां तमेव जम्बू-पादपं प्रापयामि । एवमुक्त्वा निवर्त्य जम्बू-तलमगात् । वानरोऽपि कथमपि जल्पित-विविध-देवतोपचार-पूजस्तीरमासादितवान् । ततश्च दीर्घतर-चङ्क्रमणेन तमेव जम्बू-पादपमारूढश्चिन्तयामास-अहो ! लब्धास्तावत्प्राणाः । अथवा साध्विदमुच्यते—
न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥
Metre: अनुष्टुप्
तन्ममैतदद्य पुनर्जन्म-दिनमिव सञ्जातम् ।