तच्छ्रुत्वा सर्प आह—भो !अश्रद्धेयमेतत्यत्-तृणानां वह्निना सह सङ्गमः । उक्तं च—
यो यस्य जायते वध्यः स स्वप्नेऽपि कथञ्चन । न तत्-समीपमभ्येति तत्किमेवं प्रजल्पसि ॥
Metre: अनुष्टुप्
गङ्गदत्त आह—भोः ! सत्यमेतत् । स्वभाव-वैरी त्वमस्माकम् । परं पर-परिभवात्प्राप्तोऽहं ते सकाशम् । उक्तं च—
सर्व-नाशे च सञ्जाते प्राणानामपि संशये । अपि शत्रुं प्रणम्यापि रक्षेत्प्राणान्धनानि च ॥
Metre: अनुष्टुप्
सर्प आह—कथय कस्मात्ते परिभवः ।
सोऽप्याह-क्व ते आश्रयो वाप्यां कूपे तडागे ह्रदे वा । तत्कथय स्वाश्रयम् ।
तेनोक्तम्-पाषाण-चय-निबद्धे कूपे ।
सर्प आह—अहो अपदा वयम् । तत्रास्ति तत्र मे प्रवेशः । प्रविष्टस्य च स्थानं नास्ति । यत्र स्थितस्तव दायादान्व्यापादयामि । तद्गम्यताम् । उक्तं च—
यच्छक्यं ग्रसितुं यस्य ग्रस्तं परिणमेच्च यत् । हितं च परिणामे यत्तदाद्यं भूतिमिच्छता ॥
Metre: अनुष्टुप्