अथ्:अन्यस्मिन्दिवसे ते ब्राह्मणाः परस्परं निश्चयं कृत्वा विद्योपार्जनार्थं कान्यकुब्जे गताः । तत्र च विद्या-मठे गत्वा पठन्ति । एवं द्वादशाब्दानि यावदेकचित्ततया पठित्वा, विद्या-कुशलास्ते सर्वे सञ्जाताः ।
ततस्तैश्चतुर्भिर्मिलित्वोक्तम्-वयं सर्व-विद्या-पारङ्गताः । तद्-उपाध्यायमुत्कलापयित्वा स्व-देशं गच्छामः । तथैवानुष्ठीयतामित्युक्त्वा ब्राह्मणाः उपाध्यायमुकलापयित्वा अनुज्ञां लब्ध्वा पुस्तकानि नीत्वा प्रचलिताः । यावत्किञ्चिन्-मार्गं यान्ति, तावद्द्वौ पन्थानौ समायातौ उपविष्टाः सर्वे ।
तत्रैकः प्रोवाच-केन मार्गेण गच्छामः ?
एतस्मिन्समये तस्मिन्पत्तने कश्चित्वणिक्-पुत्रो मृतः । तस्य दाहाय महाजनो गतोऽभूत् । ततश्चतूर्णां मध्यादेकेन पुस्तकमवलोकितम्-महाजनो येन गतः स पन्थः इति । तन्महा-जन-मार्गेण गच्छामः ।
अथ ते पण्डिता यावन्महाजनमेलापकेन सह यान्ति, तावद्रासभः कश्चित्तत्र श्मशाने दृष्टः । अथ द्वितीयेन पुस्तकमुद्घाट्यावलोकितम् ।
उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रु-सङ्कटे । राज-द्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥
Metre: अनुष्टुप्
तदहो !अयमस्मदीयो बान्धवः । ततः कश्चित्तस्य ग्रीवायां लगति । कश्चित्पादौ प्रक्षालयति । अथ यावत्ते पण्डिताह्दिशामवलोकनं कुर्वन्ति तावत्कश्चिद्दुष्टो दृष्टः । तैश्चोक्तम्-एतत्किम् ?
तावत्तृतीयेन पुस्तकमुद्घाट्योक्तम्-धर्मस्य त्वरिता गतिः । तन्नूनमेष धर्मस्तावत् ।
चतुर्थेनोक्तम्-इष्टं धर्मेण योजयेत् ।
अथ तैश्च रासभ उष्ट्र-ग्रीवायां बद्धः । तत्तु केनचित्तत्-स्वामिनो रजकस्याग्रे कथितम् । यावद्रजकस्तेषां मूर्ख-पण्डितानां प्रहार-करणाय समायातस्तावत्ते प्रणष्टाः ।