प्रियविरहे मातुलानि! प्रतिवेशिन्याः स्नेह एवापूर्वः॥)
१८. असंसृष्टो यथा—(गास. ८७१वे., वज्जा ४६७)
कुलपालिआए पेच्छह, जोव्वण—लाअण्ण—विब्भम—विलासा।
पवसंति व्व पवसिए, एति व्व पिए घरं एंते॥ ४५॥
(कुलपालिकायाः प्रेक्षध्वं यौवनलावण्यविभ्रमविलासाः।
प्रोषिता इव प्रोषिते, आयाता इव प्रिये गृहमागते॥)
यावन्निरस्यति स तत्र न सिद्धमेनामाकृष्य खङ्गमसितं निजविक्रमेण।
अन्येन तावदपहृत्य मृगाङ्कलेखा नीतान्तरिक्षगतिना रजनीचरेण॥ ४६॥
२०. प्रच्छन्नकृतो यथा—(मामा. ८.८)