दीर्घश्च गतः कालो न समा एका च सा निशा रघुपतेः॥)
१२. विप्रकृष्टो यथा—(अमरु. ९९)
देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननै— र्यत्नेनापि न याति लोचनपथं कान्तेति जानन्नपि।
उद्ग्रीवश्चरणार्धरुद्धवसुधः कृत्वाश्रुपूर्णां दृशं तामाशां पथिकस्तथापि किमपि ध्यायन् मुहुर्वीक्षते॥ ३९॥
कश्चित् कान्ताविरहगुरुणा स्वाधिकारात् प्रमत्त— श्शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः।
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु॥ ४०॥
१४. निरवधिः यथा—(उराच. ३.४४)
उपायानां भावादविरतविनोदव्यतिकरै— र्विमर्दैर्वीराणां जनितजगदत्यद्भुतरसः।
वियोगो मुग्धाक्ष्याः स खलु रिपुघातावधिरभूत् कथं तूष्णीं सह्यो निरवधिरयं तु प्रविलयः॥ ४१॥