उत्तिष्ठामि विमुञ्च नाथ! सुतनु! क्व प्रस्थिता न क्वचिन् नेच्छामि प्रभुणैकमासनमहं जातः कथं वा प्रभुः।
स्वाच्छन्द्यान्ननु किं कृतं तव मया नो किञ्चिदित्थं गिरा तन्वङ्गी दयितं दुनोति रुदती कृत्वा मुखं वक्षसि॥ २३॥
६. प्रगल्भाश्रयो यथा—(अमरु. १८)
'एकत्रासनसंस्थितिः परिहृता'॥ २४॥
धरिओ अमरिसपसरो माणक्खलणे वि ण पडिओ चिअ वाहो।
तीए णवरं पिअअमे गहिए अणिअत्तलोअणं णीससिअं॥ २५॥
(धृतोऽमर्षप्रसरो मानस्खलनेऽपि न पतित एव बाष्पः।
तया केवलं प्रियतमेन गृहीते निवर्त्यमानलोचनं निःश्वसितम्॥)