भ्रूभेदे सहसोद्गतेऽपि वदनं नीतं परां नम्रता— मीषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम्।
अन्तर्बाष्पजडीकृतं प्रभुतया चक्षुर्न विस्फारितं कोपश्च प्रकटीकृतो दयितया मुक्तश्च न प्रश्रयः॥ २९॥
सख्यः किं परुषैर्विमुञ्चत रुषं तस्यापराधः सकृत् क्षन्तव्यश्चपलस्य मां प्रति पुनः कर्ता प्रियो नाप्रियम्।
इत्थं मानपरिग्रहव्यतिकरं हित्वा तथा प्रत्युत प्रारब्धानुनया यथा परिजनेनैवाकुला हस्यते॥ ३०॥
१. दृष्टापराधालम्बनो यथा—
मज्झ समुहावराहं तुह करंतस्स दलिअदक्खिण्णगुणं।
अगणिअ—परिवाअ—भअं जुअइ—जणम्मि वह/पहुत्तणं णिबडिअं॥ ३१॥