(प्रतीहि न प्रतियन्ती यदि तव न भवन्ति मम रोदनशीलायाः।
पृष्ठे बाष्पबिन्दवः पुलकोद्भेदेन भिद्यमानाः॥)
४. अश्रुतार्थापन्नालम्बनो यथा—(पृ. १३६७)
निर्मग्नेन मयाम्भसि स्मरभरादाली समालिङ्गिता केनालीकमिदं तवाद्य कथितं राधे! मुधा ताम्यसि।
इत्युत्स्वप्नपरम्परासु शयने श्रुत्वा गिरं शार्ङ्गिणः सव्याजं शिथिलीकृतः कमलया कण्ठग्रहः पातु वः॥ ३४॥
५. शङ्कितापराधालम्बनो यथा—(गास. ८६२वे.)
पइण वण्णिज्जंते अक्खाणअसुंदरीए रूवंमि।
ईसामच्छरगरुई घरिणी हुंकारअं देइ॥ ३५॥
(पत्या वर्ण्यमाने आख्यानकसुन्दर्या रूपे।
ईर्ष्यामत्सरगुर्विणी गृहिणी हुंकारकं ददाति॥)