नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः॥ ५०॥
उण्हं जउणाएॅ जलं उण्हा जउणाएॅ वेअस—कुडुंगा।
उण्हा जउणा वि कआ केण वि महुरं गए कण्हे॥ ५१॥
(उष्णं यमुनाया जलं उष्णा यमुनाया वेतसनिकुञ्जाः।
उष्णा यमुनापि कृता केनापि मथुरां गते कृष्णे॥)
१. दैवापन्नेषु शापकृतो यथा—(शाकु. ४.१)
विचिन्तयन्ती यमनन्यमानसा तपोनिधिं वेत्सि न मामुपस्थितम्।