भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 171 to 180 of 915 verses
विस्त्रम्भात् कलिता लतेव हृदये किं वा चिरं न स्थिता कान्तिर्वास्य विनापि वाच्यमसवो यन्न प्रयाताः स्वयम्॥ ४०॥

कृत्रिमो यथा—(गास. ८७६वे.)

तह अडअणाए रुण्णं पइमरणे वाहरिध्धकंठीए।

अणुमरणसंकिणो जह जारस्स वि संकिअं हिअअं॥ ४१॥

(तथा असत्या रुदितं पतिमरणे बाष्पकरुद्धकण्ठया।

अनुमरणशङ्किनो यथा जारस्यापि शङ्कितं हृदयम्॥)

सम्भोगविप्रलम्भाश्रयभेदेषु प्रथमानुरागानन्तर्यादयोऽष्टावपि प्रत्येकं त्रिधा— तज्जातास्तदुल्लेखिनस्तदन्तरङ्गाश्च।

(९. सम्भोगाश्रयः)

१. तत्र सम्भोगाश्रयेषु प्रथमानुरागानन्तरजा यथा—(मामा. ६.९)

नैराश्‍यकातरधियो हरिणेक्षणायाः श्रुत्वा निकामकरुणं च मनोहरं च।

Showing 171 to 180 of 915 verses