अणुदिअहं वड्ढंते खु क्खुरुडे/गरुए व्व दुक्खमुव्वहइ।
कुलवहुआ विहवत्तणणिप्पइगुणगोरवेण थणाए॥ ३८॥
(अनुदिवसं वर्धमानयोः खलु गुरुकयोः इव दुःखमुद्वहति।
कुलवधुका विधवात्वनिष्पत्तिगुणगौरवेण स्तनयोः॥)
४. प्रत्यवरोऽपि त्रिधैव प्रकाश, आहार्यः, कृत्रिमश्चेति। तेषु —
अयि जिवितनाथ! जीवसीत्यभिधायोत्थितया तया पुनः।
ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम्॥ ३९॥
किं देव्या अपि चुम्बितोऽस्मि बहुशो मिथ्याप्रसुप्तस्तया कोपे सत्यपि किं निरीक्ष्य हसिता नो मन्मूखं भामिनी।