भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 161 to 170 of 782 verses
अवनविशेषेषु रक्षणं यथा—(शाकु. २.१६)

नैतच्‍चित्रं यदयमुदधिश्‍यामसीमां धरित्री— मेकः कृत्स्‍नां नगरपरिघप्रांशुबाहुर्भुनक्ति।

आशंसन्ते सुरयुवतयः सक्तवैरा हि दैत्यै— रस्याधिज्ये धनुषि विजयं पौरुहूते च वज्रे॥ २२॥

क्रियेच्छायां यथा—(शाकु. ५.१९)

इदमुपनतमेवं रूपमक्लिष्टकान्ति प्रथमपरिगृहीतं स्यान्नवेत्यव्यवस्यन्।

भ्रमर इव विभाते कुन्दमन्तस्तुषारं— न च खलु परिभोक्तुं नैव शक्‍नोमि हातुम्॥ २३॥

स्वाम्यर्थे यथा—

विपुलमतिभिः कैरप्येतज्जगज्जनितं पुरा विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा।

इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः॥ २४॥

याचने यथा—(रघु. १९.३)

Showing 161 to 170 of 782 verses