वैयात्यमपि वर्धयत्येव। यदाह—(माघ. २.४४)
अन्यदा भूषणं पुंसां शमो लज्जेव योषिताम्।
पराक्रमः परिभवे वैयात्यं सुरतेष्विव॥ १९॥
वैदग्ध्यात्तु रागवृद्धेर्हेतुरेव, यदाह—'वैचक्षण्ययुक्तश्च गणिकास्तत्कामिनश्च परस्परस्य प्रार्थनीया भवन्ति। तेन वैचित्र्यमपि व्याख्यातम्। आह च—भवति हि रागेऽपि वैचित्र्यापेक्षा, वैचित्र्येण च परस्परस्य रागो जनयितव्यः। . . . अन्येष्वपि धनुर्वेदादिषु वैचित्र्यमपेक्षते, किं पुनरिहे'ति (कामसू.)। तदेवं 'भुज पालनाभ्यवहारयोः ॰ ॰ ॰ अनेनैव सिद्धे भुजेः कौटिल्य इत्यपि विकरणानुबन्धोपग्रहादिप्रयोजनार्थमेवेति प्रतिपत्तव्यम्।
किं पुनरमीषु सर्वेष्वप्यर्थेषु भुजेः प्रयोगो दृश्यते ? बाढम्, तत्र— हेतुव्यापारपालने भुजिर्यथा—
शत्रुषड्वर्गमुत्सृज्य जामदग्न्यो जितेन्द्रियः।
अम्बरीषश्च नाभागो बुभुजाते चिरं महीम्॥ २०॥
रक्षणाद्यविशेषेणे कर्तृव्यापारो यथा—(रघु. १८.४)
पौत्रः कुशस्यापि कुशेशयाक्षः ससागरां सागरधीरचित्तः।
एकातपत्रां भुवमेकवीरः पुरार्गलादीर्घभुजो बुभोज॥ २१॥