भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 141 to 150 of 782 verses
कथं तर्हि भुजिः पालनकौटिल्याभ्यवहारानुभवेष्विति पठ्यते ?

भुज्यर्थस्य तन्त्रावापः पत्रविभागो न स्यात्। द्विविधं हि सम्भोगशास्त्रं तन्त्रमावापश्च। तन्त्र्यन्ते जन्यन्ते रतिप्रीतिविशेषा येन तत् तन्त्रमभ्यवहारः। आसमन्तादवाप्यन्ते लभ्यन्ते रतिप्रीतिप्रकर्षहेतव आलिङ्गनादयो येन स आवापः। पालनमनुभवकौटिल्ये। (ते) त्वनिष्पादितत्वादेतयोरेवानुप्रविशतः। अभ्यवहरतो ह्यवश्‍यमनुभवो भवति। पाल्यमानस्य तु कौटिल्यं यदा अनुभवोऽप्यभ्यवहार एव। यदाहाराभ्यवहारस्यैव मनसानुसन्धानमनुभवः।

कथं तर्ह्यसौ फलभूतो रतिप्रीतिविशेषाणामुत्पत्तिहेतुर्भवति ?

लब्धास्वादस्य प्रीतिहेतावनेनैव प्रवर्त्यमानत्वात्। पारम्पर्येणापि च कारणं कारणमेव। उक्तं च—(वायुपुराणे उत्तरखण्डे ३१.९४)

न जातु कामः कामानामुपभोगेन शाम्यति।

हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते॥ १८॥

एवं कौटिल्यमपि पालनमेव।

कथं पुनः कौटिल्यं पालनं भवति ?

यतो वैपरीत्यं, वैपात्यं, वैदग्ध्यं, वैचित्र्यं चेति कौटिल्यानि। तत्र—

वामशीलत्वात् कामस्य वैपरीत्येनैव वर्धते। तथा हि—'सुलभामवमन्यते दुर्लभामाकाङ्क्षति' (कामसू. ५.१) इति प्रायोवादः। कलहरूपं च सुरतमाचक्षते।

Showing 141 to 150 of 782 verses