कथं तर्हि भुजिः पालनकौटिल्याभ्यवहारानुभवेष्विति पठ्यते ?
भुज्यर्थस्य तन्त्रावापः पत्रविभागो न स्यात्। द्विविधं हि सम्भोगशास्त्रं तन्त्रमावापश्च। तन्त्र्यन्ते जन्यन्ते रतिप्रीतिविशेषा येन तत् तन्त्रमभ्यवहारः। आसमन्तादवाप्यन्ते लभ्यन्ते रतिप्रीतिप्रकर्षहेतव आलिङ्गनादयो येन स आवापः। पालनमनुभवकौटिल्ये। (ते) त्वनिष्पादितत्वादेतयोरेवानुप्रविशतः। अभ्यवहरतो ह्यवश्यमनुभवो भवति। पाल्यमानस्य तु कौटिल्यं यदा अनुभवोऽप्यभ्यवहार एव। यदाहाराभ्यवहारस्यैव मनसानुसन्धानमनुभवः।
कथं तर्ह्यसौ फलभूतो रतिप्रीतिविशेषाणामुत्पत्तिहेतुर्भवति ?
लब्धास्वादस्य प्रीतिहेतावनेनैव प्रवर्त्यमानत्वात्। पारम्पर्येणापि च कारणं कारणमेव। उक्तं च—(वायुपुराणे उत्तरखण्डे ३१.९४)
न जातु कामः कामानामुपभोगेन शाम्यति।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते॥ १८॥
कथं पुनः कौटिल्यं पालनं भवति ?
यतो वैपरीत्यं, वैपात्यं, वैदग्ध्यं, वैचित्र्यं चेति कौटिल्यानि। तत्र—
वामशीलत्वात् कामस्य वैपरीत्येनैव वर्धते। तथा हि—'सुलभामवमन्यते दुर्लभामाकाङ्क्षति' (कामसू. ५.१) इति प्रायोवादः। कलहरूपं च सुरतमाचक्षते।