३. एवमपरोऽपि त्रिधा नैमित्तिकः, सामान्यो, यौवनजश्च। तेषु —
नैमित्तिको यथा—(उराच. ३.९)
अन्तर्लीनस्य दुःखाग्नेरद्योद्दामं ज्वलिष्यतः।
उत्पीड इव धूमस्य मोहः प्रागावृणोति माम्॥ ३६॥
समसोक्खदुक्खसंववड्ढिआणं कालेण रूढपणआणं।
मिहुणाणं मरइ जं तं खु जिअइ इअरं मअं होइ॥ ३७॥
(समसौख्यदुःखसंवर्धितयोः कालेन रूढप्रणययोः।
मिथुनयोर्म्रियते यत् तत् खलु जीवति इतरन्मृतम् भवति)॥