५. धर्मापन्नेषु साभिप्रायो यथा—
न्यक्कारे विहिते द्विषा यदुचितं मन्ये कृतं तन्मया स्वे सुग्रीवविभीषणावपि पदे नीतौ पुनः स्वां स्थितिम्।
आज्ञां पालयतो ममेह फलितास्ताताशिषः किन्त्विदं सर्वं नेह विदेहराजतनयात्यागाद् विना लभ्यते॥ ५६॥
६. निरभिप्रायो यथा—(उराच. १.४९)
विस्रम्भादुरसि निपत्य जातनिद्रा— मुन्मुच्य प्रियगृहिणीं गृहस्य शोभाम्।
आतङ्कस्फुरितकठोरगर्भगुर्वीं क्रव्यादे बलिमिव दारुणः क्षिपामि॥ ५७॥
कैकेयी मयि नो विलक्षवदना नो मन्थरान्यादृशी श्रूयन्ते न च मैथिलीपरिजनस्याद्यापि दुष्टा गिरः।
मिथ्यावादविमोहितेन सहसा वह्नौ विशुद्धा तथा निर्वाच्या किमसौ मया प्रियतमा धर्मवध्वजेनोज्झिता॥ ५८॥