प्रसादार्थं मुग्धे! तव विगतलज्जो (ऽग्रभणिति—) ष्वभिज्ञो दैवज्ञं जनमपि च ते पृच्छति पतिः॥ ३२॥
असौ विद्याधारः शिशुरपि विनिर्गत्य भवना— दिहायातस्संप्रत्यविकलशरच्चन्द्रमधुरः।
यदालोकस्थाने भवति पुरमुन्मादतरलैः कटाक्षैर्नारीणां कुवलयितवातायनमिव॥ ३३॥
१७. प्रियसन्देशो यथा—(गास. ८५०वे.)
चंदो वि चंदवअणे मुणालवाहालए मुणालाइं।
इंदीवराइ इंदीवरच्छि तावेति तुह विरहो॥ ३४॥
(चन्द्रोऽपि चन्द्रवदने मृणालबाहालते मृणालानि।
इन्दीवराणीन्दीवराक्षि! तापयन्ति तव विरहः॥)
चंदमुहि चंदधवला दीहा दीहच्छि तुह विओअम्मि।