चउजामा सअजाम व्व जामिणी कहं वि बोलीणा॥ ३५॥
(चन्द्रमुखि चन्द्रधवला दीर्घा दीर्घाक्ष! तव वियोगे।
चतुर्यामा शतयामेव यामिनी कथमपि व्यालीना॥)
१८. सुहृत्संमन्त्रणं यथा—(कादकसा. ४.९६, ९८)
अहं यथातथा वापि भवेयं स तु मत्कृते।
कथं भविष्यतीत्येषा चिन्ता दलयतीव माम्॥ ३६॥
वद किं करवाण्यत्र मुह्यतीव मनो मम।
मा भून्मे दुस्तरो विप्रवधैनसि निमज्जनम्॥ ३७॥
१९. अवस्थानुभवो यथा—(कादकसा. ४.९९)