८. अधीराश्रयो यथा—(सूमु. १९५)
यावन्नो सखि! गोचरं नयनयोरायाति तावद् द्रुतं गत्वा ब्रूहि यथाद्य ते दयितया मानः समालम्बितः।
दृष्टे धृष्टविचेष्टिते तु कितवे तस्मिन्नवश्यं मम स्वेदाम्भःप्लुतिरोधनिर्भरतनोः स्मेरं मुखं जायते॥ २६॥
भ्रूभेदो न कृतः कृता मुखशशिच्छायादिना/वा मादृशी कालुष्येण न लम्भिताः कलगिरः कोपः स्वतो लक्ष्यते।
यत्प्रागल्भ्यमपास्य सम्प्रति नवीभूतं पुनर्लज्जया यच्चायं विनयादरः प्रणयिना मुक्तो महान् वर्तते॥ २७॥
गोत्राद्गोत्रमुपैति चञ्चलतया या पादमूलात् प्रभो— र्दृष्टा या च पितुर्ममेति पटके दृष्टा पतन्ती जल/डम्।
सेयं सागरिका त्वया पशुपते। मूर्ध्ना न नारोपिते— त्युक्तः कोपकषायपाटलदृशा देव्या हरः पातु वः॥ २८॥
११. ललिताश्रयो यथा—(रत्ना. २.२१)