भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 141 to 150 of 1822 verses
८. अधीराश्रयो यथा—(सूमु. १९५)

यावन्नो सखि! गोचरं नयनयोरायाति तावद् द्रुतं गत्वा ब्रूहि यथाद्य ते दयितया मानः समालम्बितः।

दृष्टे धृष्टविचेष्टिते तु कितवे तस्मिन्नवश्यं मम स्वेदाम्भःप्लुतिरोधनिर्भरतनोः स्मेरं मुखं जायते॥ २६॥

९. उदात्ताश्रयो यथा—

भ्रूभेदो न कृतः कृता मुखशशिच्छायादिना/वा मादृशी कालुष्येण न लम्भिताः कलगिरः कोपः स्वतो लक्ष्यते।

यत्प्रागल्भ्यमपास्य सम्प्रति नवीभूतं पुनर्लज्जया यच्चायं विनयादरः प्रणयिना मुक्तो महान् वर्तते॥ २७॥

१०. उद्धताश्रयो यथा—

गोत्राद्गोत्रमुपैति चञ्चलतया या पादमूलात् प्रभो— र्दृष्टा या च पितुर्ममेति पटके दृष्टा पतन्ती जल/डम्।

सेयं सागरिका त्वया पशुपते। मूर्ध्‍ना न नारोपिते— त्युक्तः कोपकषायपाटलदृशा देव्या हरः पातु वः॥ २८॥

११. ललिताश्रयो यथा—(रत्‍ना. २.२१)

Showing 141 to 150 of 1822 verses