१५. अल्पकालो यथा—(शाकु. ६.१२)
एकैकमत्र दिवसे दिवसे मदीयं नामाक्षरं गणय गच्छसि यावदन्तम्।
तावत्प्रिये मदवरोधगृहप्रवेशं नेता जनस्तव समीपमुपैष्यतीति॥ ४२॥
१६. दीर्घकालो यथा—(उराच. ३.३३)
देव्या शून्यस्य जगतो द्वादशः परिवत्सरः।
प्रणष्टमिव नामापि न च रामो न जीवति॥ ४३॥
१७. संसृष्टो यथा—(गास. ८४८वे.)
रुअइ रुअन्तीए मए ओहिदिणे गणइ झिज्जइ अहं व।
पिअविरहे मामि सअज्झिआए णेहो च्चिअ अपुव्वो॥ ४४॥
(रोदिति रुदत्या मया अवधिदिनानि गणयति क्षीयतेऽहमिव।