९. सप्रतिविधानो यथा—(मेघ. ४)
प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम्।
स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार॥ ३६॥
१०. निष्प्रतिविधानो यथा—(उराच. ३.४५)
व्यर्थं यत्र कपीन्द्रसख्यमपि मे वीर्यं हरीणां वृथा प्रज्ञा जाम्बवतो न यत्र न गतिः पुत्रस्य वायोरपि।
मार्गं यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः सौमित्रेरपि पत्त्त्रिणामविषये तत्र प्रिये क्वासि मे॥ ३७॥
११. सन्निकृष्टो यथा—(सेब. १५.२२)
सीआविओअदुक्थं विसहंतस्स चउ—जाम—मेत्तंतरिअं।
दीहो अ गआ कालो ण समा एक्का अ सा णिसा रहुवइणो॥ ३८॥
(सीतावियोगदुःखं विषहमाणस्य चतुर्याममात्रान्तरितम्।