पूरेउ पणअभंगे गआ वि मणोरहा सवत्तीण महँ।
अणहो णाम णिअत्तइ, अकअत्थो वि बहुईण पुलेहि (?पुलएहि) पिओ॥ ३०॥
(पूरयतु प्रणयभङ्गेन गता अपि मनोरथाः सपत्नीनां मम।
अनघो नाम निवर्तते, अकृतार्थोऽपि बह्वीनां प्रलोक्य मम॥)
४. असाधारणो यथा—(रघु. १४.८७)
त्यक्त्वा सीतां दशमुखरिपुर्नोपयेमे यदन्यां तस्या एव प्रतिकृतिसखो यत् क्रतूनाजहार।
वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः सा दुर्वारव्यथमपि परित्यागदुःखं विषेहे॥ ३१॥
५. सहजरागो यथा—(रामाभ्यु.)
कृतककुपितैः बाष्पाम्भोभिः सदैन्यविलोकितैः वनमपि गता यस्य प्रीत्या धृतापि तथाम्बया।