१. परिणामाश्रयप्रभेदेषु महान् यथा—(मामा. ९.१२, उराच. ३.३१)
दलति हृदयं गाढोद्वेगं द्विधा तु न भिद्यते वहति विकलः कायो मोहं न मुञ्चति चेतना।
ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात् प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम्॥ २२॥
विस्त्रम्भान्न विसर्पितं मयि मनो निर्प्यन्त्रणं मन्त्रितुं व्यावृत्तापि निवर्तिता न शयने बाष्पं त्यजन्ती शनैः।
मामुद्दिश्य तथानया व्यवसितं तन्नोपरुद्धं मुधा कष्टं केवलमेव राजतनया दग्धा वराकी शुचा॥ २३॥
३. दीर्घो यथा—(ताव. ३.१०)
सर्वत्र ज्वलितेषु वेश्मसु भयादालीजने विद्रुते व्यासोत्कम्पविहस्तया प्रतिपदं देव्या पतन्त्या तदा।
हा नाथेति मुहुः प्रलापपरया दग्धं वराक्या तया शान्तेनापि वयं तु तेन दहनेनाद्यापि दह्यामहे॥ २४॥