३. इहान्यजन्मसङ्गमो यथा—(कुसं. ४.४४)
तदिदं परिरक्ष शोभने ! भवितव्यप्रियसङ्गमं वपुः।
रविपीतजला तपात्यये पुनरोघेन हि युज्यते नदी॥ १६॥
४. प्रेत्यसङ्गमो यथा—(रघु. ८.९५)
तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वोः— र्देहत्यागादमरगणनालेख्यमासाद्य सद्यः।
पूर्वाकारधिकतररुचा सङ्गतः कान्तयासौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु॥ १७॥
१. स्वरूपाश्रयप्रभेदेषु विचिन्तितो यथा—(मामा. ८.१२)
मम हि कुवलयाक्षीं प्रत्यनिष्टैकबुद्धे— रविरतमनुबद्धोत्कम्प एवान्तरात्मा।
स्फुरति च खलु चक्षुर्वाममेतच्च कष्टं वचनमिह भवत्योः सर्वथा हा हतोऽस्मि॥ १८॥