भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 81 to 90 of 782 verses
प्रवासानन्तरे भुजिरभ्यवहारार्थ उपसर्गः सम्पूर्णार्थः। तत्र हि चिरकालमनुभोगादत्यन्तमुपचिते प्रेमराशौ च चक्षुरादीनां स्वेषु स्वेषु विषयेषु गर्धातिशयात् सम्पूर्ण एवाभ्यवहारो भवति, समुच्‍चयेन चालिङ्गनादयः प्रयुज्यन्ते।

वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात्।

पपौ निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यामिव लोचनाभ्याम्॥ १३॥ (रघु. २.१९ )

यथा च—(मेघ. १०९ )

शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ़ मासानन्यान् गमय चतुरो लोचने मीलयित्वा।

पश्चादावां विरहगुणितं तं तमात्माभिलाषं निर्वेक्ष्यावः परिणतशरच्‍चन्द्रिकासु क्षपासु॥ १४॥

करुणानन्तरो धातुरनुभवार्थः उपसर्गश्च सम्यक्त्वार्थः। तत्र हि तैस्तैर्व्यतीत— संविधानकविशेषैस्समुत्पन्नपरमविस्त्रम्भत्वान्निष्प्रकम्पा रतिः परं प्रकर्षमारोहन्ती सम्यगनुभूयते, यथा—

मृतेति प्रेत्य सङ्गं तु यथा मे मरणं मतम्।

सैषावन्ती मया लब्धा कथमत्रैव जन्मनि॥ १५॥ (काव्याद. २.२८०)

यथा च—(नागा. २.१२)

Showing 81 to 90 of 782 verses