आबध्यन्ते न खलु मदनेनैव लब्धास्पदत्वा— दाबाधन्ते मनसिजमपि क्षिप्तकालाः कुमार्यः॥ ९॥
हरति रुचिरं गाढाश्लेषे यदङ्गकमाकुला स्थगयति तथा यत् पाणिभ्यां मुखं परिचुम्बितम्।
यदपि बहुशः पृष्टा किञ्चिद् ब्रवीत्यपरिस्फुटं रमयति रतान्तेनैवासौ मनोऽभिनवा वधूः॥ १०॥
मानान्तरे भुजिः कौटिल्यार्थः तद्विशेषकः समुपसर्गः सङ्करार्थः। तत्र हि प्रणिपातोपसान्त्वनादिहृदयाकर्षणप्रकारकौशलोद्ग्रथिते बलवदुत्कण्ठावेशवशविसूत्रिते वा मानग्रन्थावमन्थमुन्मिषन्ती तत्तद्वासनाविशेषशेषानुवृत्त्युपजनितैर्व्यलीकविप्रियादि— स्मरणैः सपत्नीनामग्रहणगोत्रस्खलनादिभिश्च प्रतिहता रतिः पुनःपुनः कुटिलतामापद्यते। यदाह, 'श्वसितकम्पितपयोधरा सकषायैरेव वाक्यैर्नायिका नायकं निस्तुदन्ती शयनीयं गच्छेत्। तत्र चालिङ्गनादीनामुपालम्भादिभिः सङ्कीर्णः प्रयोगो भवति।' यथा—
मुहुरविशदा विस्त्रम्भार्द्राः मुहुर्मुहुरस्थिराः मुहुरसरलाः प्रेमप्रह्वा मुहुः स्मृतमन्यवः।
वितथशपथोपालम्भाङ्का मुहुः कृतसन्धयः परिववृधिरे निष्पर्यन्ता मिथो मिथुनोक्तयः॥ ११॥
यदापि कार्यगौरवाद् व्यलीकमप्युपलभ्य नोपालभते तदापि सुप्रकाश— माशयकालुष्योद्भूतनूतनाकृतिभाजा सव्याजाकारगूहनोपगूहनादयः सङ्कीर्यन्ते। रतिश्चान्तरतिशयेन कुटलीभवति।
कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतम्।
असहनसखीश्रोत्रप्राप्तिप्रमोदससम्भ्रमं विवलितदृशा शून्ये गेहे समुच्छ्वसितं ततः॥ १२॥ (अमरु. ७५)