सीआत्ति रअणिअरेहिं रामसीरत्ति भणिए गअ च्चिअं मोहं॥ १३॥
(आलोकिते निषण्णा उपनीयमाने वेपितुमारब्धा।
सीता रजनीचरैः रामशिर इति भणिते गता एव मोहम्॥)
१. कालश्रयप्रभेदेषु इहजन्मसङ्गमो यथा—
स्वप्नः स्यात् किमयं न जातु जगति स्वप्नो भवेज्जाग्रतः किं केनापि हि वञ्चितोऽस्मि दयितालाभः कुतो वञ्चना।
किं नाहं शुकनन्दनः कथमसावन्यं समाभाषते केनायं रचितो विधिः सुकृतिना सिद्धेन ते कर्मणा॥ १४॥
मा शोचस्व शुचिस्मिते ! कृतजपा तप्यस्व तीव्रं तपो भूत्वा वेदवती भविष्यसि ततस्सीतेति नाम्ना भुवि।
कान्तस्ते हरिरेष वामनतनुं कृत्वा सहस्त्रार्जुनं जित्वा दाशरथित्वमेत्य भवतीं भूयः समुद्वक्ष्यति॥ १५॥