भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 71 to 80 of 1475 verses
विपद्यतेऽपि वा योषिदहितः स निगद्यते॥ १९॥

यत्रार्थो लभ्यतेऽभीष्‍टः प्रियाभीष्‍टं च सिद्‌ध्यति।

न चानर्थो भवेत् कश्चित् सुखः स उपवर्ण्यते॥ २०॥

प्रवासिनो महद् दुःखं यत्प्रभावेण जायते।

लग्‍नदोषादिजनितं स दुःख इति शस्यते॥ २१॥

धर्मार्थावनुरुध्येते चत्वारोऽपि प्रवर्तिताः।

धर्मार्थापन्नसंज्ञायास्स्थानं भवितुमीशते॥ २२॥

यत्रोभयोर्भवेदिच्छा क्रिया च विरहं प्रति।

सर्वस्‍नेहाश्रि लोपात् स प्रवासो वृत्त उच्यते॥ २३॥

यत्रैकत्र क्रियेच्छा च द्वितीये तद्‌विपर्ययः।

Showing 71 to 80 of 1475 verses