भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 91 to 100 of 782 verses
कण्ठे हारलतायोग्ये येन पाशस्तवार्पितः।

गृहीतः सापराधोऽयं मुच्यते स कथं करः॥ १६॥

ननु चाऽवस्थावशादेकैकस्यापि प्रथमानुरागानन्तरादेः सम्भोगस्यायमर्थों भवति। प्रथमानन्तरो हि प्रथमं रतिरुत्पद्यते। उत्पन्ना च नायकाभ्यां प्रियाचरणविप्रियाकरणाभ्यां पाल्यते। तत्र च संक्षिप्‍तानामेवालिङ्गनादीनां विकल्पतः प्रयोगो भवति। ततः प्रेमगतेः स्वभाकुटिलत्वाद् द्वितीयवस्थायां रतिः कुटिलतामालम्बते। सङ्कीर्णाश्चानुभावा भवन्ति। तत्रोद्भूतायां कामवामतायां सुलभामवमन्यते दुर्लभामाकाङ्गक्षतीति प्रायोवादात् परं प्रकर्षमारोहन्ती रतिस्तृतीयावस्थायामभ्यवह्रियते समुच्‍चयेन चालिङ्गनादयः प्रयुज्यन्ते, एवं च सा सम्पूर्णत्वमासादयति। चतुर्थावस्थायां तु विस्त्रम्भोत्पत्तेः परं प्रकर्षमापन्नानुभूयत एव। न तत्रोपचारः कश्चिदप्याद्रियते। एवमस्याः सम्यक्त्वं भवति।

एवं मानानन्तरादिष्वपि संक्षिप्‍ता पाल्यते। सङ्कीर्णा कुटिलीभवति। सम्पूर्णाभ्यवह्रियते; सम्यग्भूतानुभूयत इति। ततः कथमुच्यते, संक्षेपपालनानुप— सर्गधातुप्रथमानुरागानन्तरे, सङ्करकौटिल्यार्थौ मानानन्तरे, सम्यक्त्वानुभवार्थौ करुणानन्तरे इति ?

उच्यते। यद्यपि संक्षेपतः पालनमन्यत्रापि भवति, तथापि यया प्रथमानुरागानन्तरे मुग्धावधूविस्त्रम्भणादौ एतदुपयुज्यते नैवमन्येषु। यद्यपि च वारितवामत्वात् कामस्य कैटिल्यमन्यत्रापि जायते, तथापि यथा व्यलीकप्रियादिस्मरणैर्मानानन्तरे नैवमन्येषु, अभ्यवहारोऽपि यथास्वमिन्द्रियाणामुभयेषामपि विषयेषु गर्धातिशयात् प्रवृत्तिः, स यथा परस्परमुत्कण्ठितयोः प्रवासानन्तरे सम्पूर्णो भवति नैवमन्येषु। अभ्यवहारस्यैव तु मनसानुसन्धानमनुभवः, यथा— 'समुत्पन्नपरमविस्त्रम्भयोः करुणानन्तरे सम्यग्भवति।' नैवमन्येष्वित्यभिप्रायेणोक्तम् — यथाक्रमं चतुर्णामपि धात्वर्थानां चतुर्णामपि चोपसर्गार्थानां चतुर्ष्वपि प्रथमानुरागानन्तरादिषु सम्भोगेषु सर्वैरपि प्रत्ययार्थैः सार्वकालिकः सम्बन्धो भवतीति। किञ्च,

बहूनां सम्भवेऽर्थानां सर्व एवोपकारिणः।

संसर्गे कश्चिदेषां तु प्राधान्येन प्रतीयते॥ १७॥

तेन प्रथमानुरागानन्तरादिषु धातुपसर्गार्थसम्प्लवस्तद्‌व्यवस्थाया न विरुध्यत इति।

ननु च भुज पालनाभ्यवहारयोः, भुजि कौटिल्य इति त्रिष्वेवार्थेषु भुजिः स्मर्यते। स कथमनुभवार्थोऽपि भवतीति ज्ञायेत ?

आचार्यप्रवृत्तिर्ज्ञापयति, यदयं 'भुजोऽनवन' (अष्टा. १.३.६६) इत्यनवनार्थे वृत्तेरस्यात्मनेपदं निवर्त्यानवनार्थवृत्तेर्यथाप्राप्‍तमुभयपदमेवाभ्यनुजानाति। तेन मन्यामहे, सर्वेष्वयमवत्यर्थेषु वर्तत इति।

Showing 91 to 100 of 782 verses