वैपरीत्यं, वैयात्यं, वैदग्ध्यं, वैचित्र्यं चेति कौटिल्यानि।
यथा— 'कुटिलं दैवं, कुटिला दासी, कुटिल आलापः, कुटिलं पत्रमिति। एतानि च हिंसा, दीप्तिः, नहनं, भाववृद्धिरित्येव भवन्ति। तथाहि— 'वैपरीत्येन हिनस्ति, वैयान्येन दीप्यते, वैदग्ध्येन दहति, वैचित्र्येण भावं वर्धयतीति।
श्रद्धान्वितयोर्नितान्तमासक्तिरपर्याप्तता कृतार्थत्वमित्यभ्यवहारार्थाः।
यथा— सतृणमभ्यवहरति, प्रस्थमपहरति, सैन्यान्यपहरति। एते च श्रवणमालिङ्गनं प्रीतिस्तृप्तिरित्येव भवन्ति। तथा हि— 'श्रद्धालु श्रृणोति, आसक्तिमानालिङ्गति, अपर्याप्तः प्रीयते, कृतार्थस्तृप्यतीति।
सम्यग्ज्ञानं, क्रियाध्यवसायः, कार्यानुष्ठानं; फलाधिगमश्चेत्यनुभावाः।
यथा— प्रियमनुभवति, प्रियार्थमनुभवति, प्रेमानुभवति, प्रेमार्थमनुभवतीति। एते चावगमप्रवेशगत्यव्याप्तय एव भवन्ति। तथा हि— 'सम्यग्जिज्ञासुरवगच्छति, अध्यवसायार्थी प्रविशति, अनुतिष्ठासुः क्रमते, फलाधिगमार्थी तमवाप्नोतीति।
चतुर्षु वा रक्षणादिषु अवत्यर्थेषु क्रमेण वर्तमानाः पालनादयो वर्तन्ते।
ननु रक्षणं तावत्पालनमेव 'रक्ष पालन' इति वचनात्। क्रियेच्छा कौटिल्यं कुटिलं हि कृतमिदं . . . ते यथा— कृती कृतहस्तः कृतास्त्रः कृतान्नमिति। स्वाम्यर्थोऽभ्यवहारः यतो यद्ददाति तदेवास्य स्वमिष्यते। याचितमनुभवः याचितं ह्यनु पश्चाद्भवतीति प्रथमा आवृत्तिः।
एवं हिंसा पालनं, दीप्तिः, कौटिल्यं, दहनमभ्यवहारः, भाववृद्धिरनुभव इति।