भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 101 to 110 of 782 verses
के पुनरवत्यर्थाः?

येष्वतं गण(धातु?)काराः पठन्ति, 'अव रक्षणगतिकान्तिप्रीतितृप्‍त्यवगमनप्रवेश— श्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्‍त्यवाप्‍त्यालिङ्गनहिंसादानभागवृद्धिषु' (१.३.६६ असू.) इति, स एवमपि भुजेरनुभवार्थ इति।

कुत एतदुच्यते ?

य एव ते षोडशात्यर्थरक्षणादयः तेषां चत्वारः पालनं, चत्वारः कौटिल्यं, चत्वारोऽभ्यवहारं, चत्वारोनुभवमभिनिविशन्ति। तत्र—

रक्षणं क्रियेच्छास्वाम्यर्थः प्रार्थनमिति पालने,

हिंसादीप्‍तिनहनं भाववृद्ध इति कौटिल्ये,

श्रवणमालिङ्गनं प्रीतिस्तृप्‍तिरिति अभ्यवहारे,

अवगमः प्रवेशो गतिरवाप्‍त इत्यनुभवेऽन्तः षोडशाप्यवत्यर्थाश्चतुर्ष्वपि भुज्यर्थेषु पालनादिषु समाविशन्ति। तथाहि—

लब्धपरिरक्षणं, रक्षितविवर्धनं, विवृद्धोपयोगः, अलब्धप्रतीक्षा चेति पालनानि।

यथा— पृथिवीं पालयति, प्रजाः परिपालयति, राज्यमनुपालयति, फलं प्रतिपालयतीति। तानि च 'रक्षणं क्रियेच्छा स्वाम्यर्थः प्रार्थनमित्येव भवन्ति। तथा हि—'लब्धाऽविनाशार्थी रक्षति, रक्षितोपचयार्थी कर्तुमभिलषति, यथावदुपयोगार्थी स्वीकरोति, अलब्धलाभार्थी याचत' इति।

Showing 101 to 110 of 782 verses