मउअच्छिअ उललावा पिआण इहरावित्थरं चिअ गमणं॥ २५॥
॰ ॰ ॰ धवलाण लोअणाण वलइओ॥ २६॥
॰ ॰ ॰ धवलानां लोचनानां वलयितः॥)
(१२) मध्याह्नादिकृतदुःखोपलब्धिः कालावस्थानुभवः, यथा२ —(विक्र. २.२२)
उष्णालुः शिशिरे निषीदति तरोर्मूलालवाले शिखी निर्भिद्योपरि कर्णिकारमुकुलान्यालीयते षट्पदः।
तप्तं वारि विहाय तीरनलिनीं कारण्डवः सेवते क्रीडावेश्मनि चैष पञ्जरशुकः क्लान्तो जलं याचते॥ २७॥
काश्मर्याः कृतमालमुद्गतदलत्कोयष्टिकष्टीकते, तीराश्मन्तकचिम्बिचुम्बनमुचो धावन्त्यपः पूर्णकाः।
दात्यूहैस्तिमिशस्य कोटरवति स्कन्धे निलीय स्थितं वीरुन्नीडकपोतकूजितमनुक्रन्दन्त्यतः कुक्कुटाः॥ २८॥