१. पाण्डुग्रन्थः ३२५२, पृ. ८४० २. सु.र.भा.पु. ३३७ इति राघवः।
प्रेम्णा भावपरिग्रहेण गुरुणा दत्तोपदेशापि सा नाधातुं वदनं प्रियस्य वदने ह्रीसाध्वसेन क्षमा।
सुप्राते विहितस्य मण्डनविधेरालोकनच्छद्मना बाला स्वाननमेव दर्पणतले तं चुम्बितुं चुम्बति॥ ३१॥
दम्पत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद् वचः— स्तत्प्रातर्गुरुसन्निधौ निगदतस्तस्यातिमात्रं वधूः।
कर्णालम्बितपद्मरागशकलं विन्यस्य चञ्चूपुटे व्रीडार्ता विदधाति दाडिमफलव्याजेन वाग्बन्धनम्॥ ३२॥
(१४) मध्याह्नकरणीयं माध्याह्निकं यथा—
णीसेस—पसुत्त—जणम्मि अद्धरत्ते व गिम्ह—मज्झण्हे।
अहिसारेसि सअण्णं कुमारि कं गामतरुणाण॥ ३३॥
(निःशेषप्रसुप्तजने अर्धरात्रे इव ग्रीष्ममध्याह्ने।