(१३) कामिना पूर्वाह्णकरणीयं पौर्वाह्िणकं यथा—
अह सुअइ दिण्णपडिवक्खवेअणं पसिढिलेहिं अंगेहिं।
णिव्वत्तिअसुरअरसाणुबंधसुहणिब्भरं सुण्हा॥ २९॥
(असौ स्वपिति दत्तप्रतिपक्षवेदनं प्रशिथिलैरङ्गैः।
निर्वर्तितसुरतरसानुबन्धसुखनिर्भरं स्नुषा॥) (सक. ५.६४)
सहिआहिं भण्णमाणा, थणए लग्गं कुसुंभपुप्फं ति।
मुद्धवहुआ हसिज्जइ पप्फोडंती णहपआइं॥ ३०॥
(सखीभिर्भण्यमाना स्तने लग्नं कुसुम्भपुष्पमिति।
मुग्धवधूर्हस्यते प्रस्फोटयन्ती नखपदानि॥)