यया त्वं कार्यसे तस्यै नम आभिजात्यै॥)
अविशदवलन्नेत्रोपान्तं विलोकनमस्फुटं चकितचकिता वाचः स्पर्शः क्वचिज्जनसङ्कुले।
इति तव मया प्रेमारम्भे य एव विलोकिताः कठिनमनसो दृष्टा भावास्त एव विरज्यतः॥ १७॥
१२. धृष्टविषयो यथा—(गास. ८९२वे.)
अललिअइ दिठ्ठि-णिब्भच्चिओ वि विहुओ वि लख/ग्गए सिए/सिअए।
पहओ वि चुंबइ बला अलज्जए कह णु कुप्पिस्सं॥ १८॥
(आश्रयते दृष्टिनिर्भर्त्सितोऽपि विधुतोऽपि लग्नया शिखया।
प्रहतोऽपि चुम्बति बलादलज्जया कथं नु कोपिष्यामि॥)