नवजलधरश्यामाः पश्यन् दिशो भवतीं विना कठिनहृदयो जीवत्येव प्रिये स तव प्रियः॥ ३२॥
६. विस्त्रब्धरागो यथा—(मेघ. ९३)
जाने सख्यास्तव मयि मनः सम्भृतस्नेहमस्मा— दित्थंभूतां प्रथमविरहे तामहं तर्कयामि।
वाचालं मां न खलु सुभगम्मन्यभावः करोति प्रत्यक्षं ते निखिलमचिराद् भ्रातरुक्तं मया यत्॥ ३३॥
बन्धूकैरधरं स्मितानि कुमुदैर्नेत्राणि नीलोत्पलै— र्हस्तौ कोकनदैर्मुखं च कमलैः हंसैः सहासा गिरः।
प्रत्यध्वं प्रतिवासरं प्रतिसरः संदर्शयन्ती हठात् पान्थानां प्रियकामिनीव कुरुते यात्रोपरोधं शरत्॥ ३४॥
उद्यद्बर्हिषि दर्दुरारवपुषि प्रक्षीणपान्थायुषि शच्योतद्विप्रुषि चन्द्ररुङ्मुषि सखे हंसद्विषि प्रावृषि।
मा मुञ्चोच्चकुचान्तसन्ततगलद्बाष्पाकुलां बालिकां काले कालकरालनीलजलदव्यालुप्तभास्वत्त्विषि॥ ३५॥