उज्जुगूरे ततः शैलं हन्तुमिन्द्रजितं कपिः । विहाय रावणिस्तस्मादानंहे चाऽन्तिकं पितुः ॥
Metre: अनुष्टुप्
आचचक्षे च वृत्तान्तं प्रजहर्ष च रावनः । गाढं चोपजुगूहैनं शिरस्युपशिशिङ्घ च ॥
Metre: अनुष्टुप्
ध्वजानुद्दुधुवुस्तुङ्गान्मांसं चेमुर्जगुः पपुः । कामयांचक्रिरे कान्तास्ततस्तुष्टा निशाचराः ॥
Metre: अनुष्टुप्
दर्शयांचक्रिरे रामं सीतां राज्ञश्च शासनात् । तस्या मिमीलतुर्नेत्रे लुलुठे पुष्पकोदरे ॥
Metre: अनुष्टुप्
प्राणा दध्वंसिरे गात्रं तस्तम्भे च प्रिये हते ।उच्छश्वास चिराद्दीना रुरोदाऽसौ ररास च ॥
Metre: अनुष्टुप्
"लौह-बन्धैर्बबन्धे नु वज्रेण किं विनिर्ममे । मनो मे न विना रामाद्यत्पुस्फोट सहस्र-धा ॥
Metre: अनुष्टुप्
उत्तेरिथ समुद्रं त्वं मदर्थेऽरीन्जिहिंसिथ । ममर्थ चाऽतिघोरां मां धिग्जीवित-लघूकृताम् ॥
Metre: अनुष्टुप्
न जिजीवाऽसुखी तातः प्राणता रहितस्त्वया । मृतेऽपि त्वयि जीवन्त्या किं मयाऽणकभार्यया।" ॥
Metre: अनुष्टुप्
सा जुगुप्सान्प्रचक्रेऽसून्जगर्हे लक्षणानि च । देहभाञ्जि ततः केशान्लुलुञ्च लुलुठे मुहुः ॥
Metre: अनुष्टुप्
जग्लौ दध्यौ वितस्तान क्षणं प्राण न विव्यथे । दैवं निनिन्द चक्रन्द देहे चाऽतीव मन्युना ॥
Metre: अनुष्टुप्