ततो दशाऽऽस्यः स्मर-विह्वलाऽऽत्मा चार-प्रकाशीकृत-शत्रु-शक्तिः । विमोह्य माया-मय-राम-मूर्ध्ना सीतामनीकं प्रजिघाय योद्धुम् ॥
Metre: उपजातिः
कम्बूनथ समादध्मुः कोणैर्भेर्यो निजघ्निरे । वेणून्पुपूरिरे गुञ्जा जुगुञ्जुः कर-घट्टिताः ॥
Metre: अनुष्टुप्
वादयांचक्रिरे ढक्काः पणवा दध्वनुर्हताः । काहलाः पूरयांचक्रुः पूर्णाः पेरश्च सस्वनुः ॥
Metre: अनुष्टुप्
मृदङ्गा धीरमास्वेनुर्हतैर्स्वेने च गोमुखैः । घण्टाः शिशिञ्जिरे दीर्घं जह्रादे पटहैर्भृशम् ॥
Metre: अनुष्टुप्
हया जिहेषिरे हर्षाद्गम्भीरं जगजुर्गजाः । संत्रस्ताः करभा रेटुश्चुकुवुः पत्ति-पङ्क्तयः ॥
Metre: अनुष्टुप्
तुरङ्गा-पुस्फुटुर्भीताः पुस्फुरुर्वृषभाः परम् । नार्यश्चुक्षुभिरे मम्लुर्मुमुहुः शुशुचुः पतीन् ॥
Metre: अनुष्टुप्
जगर्जुर्जहृषुः शुरा रेजुस्तुष्टुविरे परैः । बबन्धुरङ्गुलि-त्राणि सन्नेहुः परिनिर्ययुः ॥
Metre: अनुष्टुप्
धनूष्यारोपयांचक्रुरारुरुहू रथाऽऽदिषु ।असीनुद्ववृहुर्दीप्तान्गुर्वीरुच्चिक्षिपुर्गदाः ॥
Metre: अनुष्टुप्
शूलानि भ्रमयांचक्रुर्बाणानाददिरे शुभान् । भ्रेमुश्चुकुर्दिरे रेसुर्ववल्गुश्च पदातयः ॥
Metre: अनुष्टुप्
अमुत्पेतुः कशा-घातै रश्म्याकर्षैर्ममङ्गिरे ।अश्वाः प्रदुद्रुवुर्मोक्षे रक्तं निजगरुः श्रमे ॥
Metre: अनुष्टुप्