उल्का ददृशिरे दीप्ता रुरुवुश्चाऽशिवं शिवाः । चक्ष्माये च मही रामः शशङ्के चाऽशुभाऽगमम् ॥
Metre: अनुष्टुप्
रावणः शुश्रुवान्शत्रून्राक्षसानभ्युपेयुषः । स्वयं युयुत्सयांचक्रे प्राकाराऽग्रे निषेदिवान् ॥
Metre: अनुष्टुप्
निरासू राक्षसा बाणान्प्रजहुः शूल-पट्टिशान् ।असींश्च वाहयांचक्रुः पाशैश्चाऽऽचकृषुस्ततैः ॥
Metre: अनुष्टुप्
भल्लैश्च बिभिदुस्तीक्ष्णैर्विविधुस्तोमरैस्तथा। । गदाभिश्चूर्णयांचक्रुः शितैश्चक्रैश्च चिच्छिदुः ॥
Metre: अनुष्टुप्
वानरा मुष्टिभिर्जघ्नुर्ददंशुर्दशनैस्तथा । निरासुश्च गिरींस्तुङ्गान्द्रुमान्विचकरुस्तथा ॥
Metre: अनुष्टुप्
लाङ्गूलैर्लोठयांचक्रुस्तलैर्निन्युश्च संक्षयम् । नखैश्चकृततुः क्रुद्धाः पिपिषुश्च क्षितौ बलात् ॥
Metre: अनुष्टुप्
संबभूवुः कबन्धानि प्रोहुः शोणित-तोय-गाः । तेरुर्भटाऽऽस्य-पद्मानि ध्वजैः फेणैरिवाऽऽबभे ॥
Metre: अनुष्टुप्
रक्त-पङ्के गजाः सेदुर्न प्रचक्रमिरे रथाः । निममज्जुस्तुरङ्गाश्च गन्तुं नोत्सेहिरे भटाः ॥
Metre: अनुष्टुप्
कोट्या कोट्या पुर-द्वारमेकैकं रुरुघे द्विषाम् । षट्-त्रिंशद्धरि-कोट्यश्च निवव्रुर्वानराऽऽधिपम् ॥
Metre: अनुष्टुप्
तस्तनुर्जह्वलुर्मम्लुर्जग्लुर्लुलुठिरे क्षताः । मुमूर्च्छुर्ववमू रक्तं ततृषुश्चोभये भटाः ॥
Metre: अनुष्टुप्