कुम्भकर्णस्ततोऽगर्जीद्भटांश्चाऽन्यान्न्यवीवृतत्। ।उपायंस्त महाऽस्त्राणि निरगाच्च द्रुतं पुरः ॥
Metre: अनुष्टुप्
मूर्ध्ना दिवमिवाऽलेखीत्खं व्यापद्वपुषोरुणा । पादाभ्यां क्ष्मामिवाऽभैस्तीत्दृष्ट्याऽधाक्षीदिव द्विशः ॥
Metre: अनुष्टुप्
दग्ध-शैल इवाऽभासीत्प्राक्रंस्त क्षय-मेघ-वत् । प्राचकम्पदुदन्वन्तं राक्षसानप्यतित्रसत् ॥
Metre: अनुष्टुप्
स-पक्षोऽद्रिरिवाऽचालीन्न्यश्वसीत्कल्प-वायु-वत् ।अभार्षीद्ध्वनिना लोका- नभ्राजिष्ट क्षयाऽग्नि-वत् ॥
Metre: अनुष्टुप्
अनंसीद्भूर्भरेणाऽस्य रंहसा शाखिनोऽलुठन् । सिंहाः प्रादुद्रुवन्भीताः प्राक्षुभन्कुल-पर्वताः ॥
Metre: अनुष्टुप्
उत्पाताः प्रावृतंस्तस्य द्यौरशीकिष्ट शोणितम् । वायवोऽवासिषुर्भीमाः क्रूराश्चाऽकुषत द्विजाः ॥
Metre: अनुष्टुप्
अस्पन्दिष्टाऽक्षि वामं च घोराश्चाऽराटिषुः शिवाः । न्यपप्तन्मुसले गृध्रा दीप्तयाऽपाति चोल्कया ॥
Metre: अनुष्टुप्
आंहिष्ट तान-संमान्य दर्पात्स प्रधन-क्षितिम् । ततोऽनर्दीदनन्दीच्च शत्रूनाह्वास्त चाऽऽहवे ॥
Metre: अनुष्टुप्
प्राशीन्न चाऽतृपत्क्रूरः क्षुच्चाऽस्याऽवृधदश्नतः ।अधाद्वसामधासीच्च रुधिरं वन-वासिनाम् ॥
Metre: अनुष्टुप्
माम्सेनाऽस्याऽश्वतां कुक्षी जठरं चाऽप्यशिश्वियत् । बहूनामग्लुचत्प्राणा- नग्लोचीच्च रणे यशः ॥
Metre: अनुष्टुप्