राक्षसेन्द्रस्ततोऽभैषीदैक्षिष्ट परितः पुरम् । प्रातिष्ठिपच्च बोधाऽर्थं कुम्भकर्णस्य राक्षसान् ॥
Metre: अनुष्टुप्
तेऽभ्यगुर्भवनं तस्य सुप्तं चैक्षिषताऽथ तम् । व्याहार्षुस्तुमुलान्शब्दान्दण्डैश्चाऽवधिषुर्द्रुतम् ॥
Metre: अनुष्टुप्
केशानलुञ्चिषुस्तस्य गजान्गात्रेष्वचिक्रमन् । शीतैरभ्यषिचंस्तोयैरलातैश्चाऽप्यदम्भिषुः ॥
Metre: अनुष्टुप्
नखैरकर्तिषुस्तीक्ष्णैरदाङ्क्षुर्दशनैस्तथा । शितैरतौत्सुः शूलैश्च भेरीश्चाऽवीवदन्शुभाः ॥
Metre: अनुष्टुप्
स तान्नाऽजीगणत्सर्वा- निच्छयाऽबुद्ध च स्वयम् ।अबूबुधत कस्मान्मा- मप्राक्षीच्च निशा-चरान् ॥
Metre: अनुष्टुप्
तेऽभाषिषत "राजा त्वां दिदृक्षुः क्षणदा-चर !" । सोऽस्नासीद्व्यलिपन्मांसमप्सासीद्वारुणीमपात् ॥
Metre: अनुष्टुप्
न्यवसिष्ट ततो द्रष्टुं रावणं प्रावृतत्गृहात्। । राजा यान्तं तमद्राक्षीदुदस्थाच्चेषदासनात् ॥
Metre: अनुष्टुप्
अतुषत्पीठमासन्ने निरदिक्षच्च काञ्चनम्। ।अस्मेष्ट कुम्भकर्णोऽल्पमुपाविक्षदथाऽन्तिके ॥
Metre: अनुष्टुप्
अवादीन् "मां किमित्याह्वो" राज्ञा च प्रत्यवादि सः । "माज्ञासीस्त्वं सुखी रामो यदकार्षीत्स रक्षसाम् ॥
Metre: अनुष्टुप्
उदतारीदुदन्वन्तं पुरं नः परितोऽरुधत् । व्यद्योतिष्ट रणे शस्त्रैरनैषीद्राक्षसान्क्षयम् ॥
Metre: अनुष्टुप्