गजानां प्रददुः शारीन्कम्बलान्परितस्तरुः । तेनुः कक्षां ध्वजांश्चैव समुच्छिश्रियुरुच्छिखान् ॥
Metre: अनुष्टुप्
विशिश्वासयिषांचक्रुरालिलिङ्गुश्च योषितः ।आजघ्नुर्मूर्ध्नि बालांश्च चुचुम्बुश्च सुत-प्रियाः ॥
Metre: अनुष्टुप्
गम्भीर-वेदिनः संज्ञा गजा जगृहुरक्षताः । ववृधे शुशुभे चैषां मदो हृष्टैश्च पुप्लुवे ॥
Metre: अनुष्टुप्
मृगाः प्रदक्षिणं सस्रुः शिवाः सम्यग्ववाशिरे ।अ-वामैः पुस्फुरे देहैः प्रसेदे चित्त-वृत्तिभिः ॥
Metre: अनुष्टुप्
प्राज्यमाञ्जिहिषांचक्रे प्रहस्तो रावणाऽऽज्ञया । द्वारं ररङ्घतुर्याम्य्ं महापार्श्व-महोदरौ ॥
Metre: अनुष्टुप्
प्रययाविन्द्र-जित्प्रत्यगियाय स्वयमुत्तरम्। । सहध्यासिसिषांचक्रे विरूपाऽक्षः पुरोदरम् ॥
Metre: अनुष्टुप्
शुश्राव रामस्तत्सर्वं प्रतस्थे च स-सैनिकः । विस्फारयांचकाराऽस्त्रं बबन्धाऽथ च बाणधी ॥
Metre: अनुष्टुप्
ईक्षांचक्रेऽथ सौमित्रिमनुजज्ञे बलानि च । नमश्चकार देवेभ्यः पर्ण-तल्पं मुमोच च ॥
Metre: अनुष्टुप्
चकासांचक्रुरुत्तस्थुर्नेदुरानशिरे दिशः । वानरा भूधरान्रेधुर्बभञ्जुश्च ततस्तरून् ॥
Metre: अनुष्टुप्
ददाल भूर्नभो रक्तं गोष्पदप्रं ववर्ष च । मृगाः प्रससृपुर्वामं खगाश्चुकुविरेऽशुभम् ॥
Metre: अनुष्टुप्