सम्पातिना प्रजङ्घस्तु युयुधेऽसौ द्रुमाहतः । चकम्पे तीव चुक्रोश जीवनाशं ननाश च ॥
Metre: अनुष्टुप्
उच्चख्नाते नलेनाऽऽजौ स्फुरत्-प्रतपनाऽक्षिणी । जम्बुमाली जहौ प्राणान्ग्राव्णा मारुतिना हतः ॥
Metre: अनुष्टुप्
मित्रिघ्नस्य प्रचुक्षोद गदयाऽङ्गं विभीषणः। । सुग्रीवः प्रघसं नेभे बहून्रामस्ततर्द च ॥
Metre: अनुष्टुप्
वज्रमुष्टेर्विशिश्लेष मैन्देनाऽभिहतं शिरः । नीलश्चकर्त चक्रेण निकुम्भस्य शिरः स्फुरत् ॥
Metre: अनुष्टुप्
विरूपाक्षो जहे प्राणैस्तृढः सौमित्रि-पत्रिभिः । प्रमोचयांचकाराऽसून्द्विविदस्त्वशनि-प्रभम् ॥
Metre: अनुष्टुप्
गदा शत्रु-जिता जिघ्ये तां प्रतीयेष वालि-जः । रथं ममन्थ स-हयं शाखिनाऽस्य ततोऽङ्गदः ॥
Metre: अनुष्टुप्
तत्कर्म वालि-पुत्रस्य दृष्ट्वा विश्वं विसिष्मिये । संत्रेसू राक्षसाः सर्वे बहु मेने च राघवः ॥
Metre: अनुष्टुप्
सुग्रीवो मुमुदे देवाः साध्वित्यूचुः सविस्मयाः । विभीषणोऽभितुष्टाव प्रशशंसुः प्लवङ्गमाः ॥
Metre: अनुष्टुप्
ही चित्रं लक्ष्मणेनोदे रावणिश्च तिरोदधे । विचकार ततो रामः शरान्संतत्रसुर्द्विषः ॥
Metre: अनुष्टुप्
विभिन्ना जुघुरुर्घोरं जक्षुः क्रव्याऽशिनो हतान् । चुष्च्योत व्रणिनां रक्तं छिन्नाश्चेलुः क्षणं भुजाः ॥
Metre: अनुष्टुप्