कृत्तैरपि दृढ-क्रोधो वीर-वक्त्रैर्न तत्यजे । पलायांचक्रिरे शेषा जिह्रियुः शूर-मानिनः ॥
Metre: अनुष्टुप्
राघवो न दयांचक्रे दधुर्धैर्यं न केचन । मम्रे पतङ्गवद्वीरैर्हाहेति च विचुक्रुशे ॥
Metre: अनुष्टुप्
तिरोबभूवे सूर्येण प्रापे च निशयाऽऽस्पदम् । जग्रसे काल-रात्रीव वानरान्राक्षसाम्श्च सा ॥
Metre: अनुष्टुप्
चुकोपेन्द्रजिदत्युग्रं सर्पाऽस्त्रं चाऽऽजुहाव सः ।आजुहुवे तिरोभूतः परानीकं जहास च ॥
Metre: अनुष्टुप्
बबाधे च बलं कृत्स्नं निजग्राह च सायकैः ।उत्ससर्ज शरांस्तेऽस्य सर्प-साच्च प्रपेदिरे ॥
Metre: अनुष्टुप्
आचिचाय स तैः सेनामाचिकाय च राघवौ । बभाण च "न मे मायां जिगायेन्द्रोऽपि किं नृभिः" ॥
Metre: अनुष्टुप्
आचिक्याते च भूयोऽपि राघवौ तेन पन्नगैः । तौ मुमुहतुरुद्विग्नौ वसुधायां च पेततुः ॥
Metre: अनुष्टुप्
ततो रामेति चक्रन्दुस्त्रेसुः परिदिदेविरे । निशश्वसुश्च सेनान्यः प्रोचुर्धिगिति चाऽऽत्मनः ॥
Metre: अनुष्टुप्
मन्युं शेकुर्न ते रोद्धुं नाऽस्रं संरुरुधुः पतत् । विविदुर्नेन्द्रजिन्-मार्गं परीयुश्च प्लवङ्गमाः ॥
Metre: अनुष्टुप्
दधावाऽद्भिस्ततश्चक्षुः सुग्रीवस्य विभीषणः । विदांचकार धौताऽक्षः स रिपुं खे ननर्द च ॥
Metre: अनुष्टुप्