आश्वासयांचकाराऽथ त्रिजटा तां निनाय च। । ततः प्रजागरांचक्रुर्वानराः स-विभीषणाः ॥
Metre: अनुष्टुप्
चिचेत रागस्तत्कृच्छ्रमोषांचक्रे शुचाऽथ सः । मन्युश्चाऽस्य समापिप्ये विरुराव च लक्ष्मणम् ॥
Metre: अनुष्टुप्
समीहे मर्तुमानर्चे तेन वाचाऽखिलं बलम् ।आपपृच्छे च सुग्रीवं स्वं देशं विससर्ज च ॥
Metre: अनुष्टुप्
आदिदेश स किष्किन्धां राघवौ नेतुमङ्गदम् । प्रतिजज्ञे स्वयं चैव सुग्रीवो रक्षसा वधम् ॥
Metre: अनुष्टुप्
"नागाऽस्त्रमिदमेतस्य विपक्षस्तार्क्ष्य-संस्मृतिः" । विभीषणादिति श्रुत्वा तं निदध्यौ रघूत्तमः ॥
Metre: अनुष्टुप्
ततो विजघटे शैलैरुद्वेलं पुप्लुवेऽम्बुधिः । वृक्षेभ्यश्चुच्युते पुष्पैर्विरेजुर्भासुरा दिशः ॥
Metre: अनुष्टुप्
जगाहिरेऽम्बुधिं नागा ववौ वायुर्मनो-रमः । तेजांसि शंशमांचक्रुः शर-बन्धा विशिश्लिषुः ॥
Metre: अनुष्टुप्
भ्रेजिरेऽक्षत-वद्योधा लेभे संज्ञां च लक्ष्मणः । विभीषणोऽपि बभ्राजे गरुत्मान्प्राप चाऽन्तिकम् ॥
Metre: अनुष्टुप्
संपस्पर्शाऽथ काकुत्स्थौ जज्ञाते तौ गत-व्यथौ । तयोरात्मानमाचख्यौ ययौ चाऽथ यथा-गतम् ॥
Metre: अनुष्टुप्
स्वेनुस्तित्विषुरुद्येमुरच्चख्नुः पर्वतांस्तरून् । वानरा दद्रमुश्चाऽथ संग्रामं चाऽऽशशाशिरे ॥
Metre: अनुष्टुप्