पपात राक्षसो भूमौ रराट च भयंकरम् । तुतोद गदया चाऽरिं तं दुध्रावाऽद्रिणा कपिः ॥
Metre: अनुष्टुप्
अकम्पनस्ततो योद्धुं चकमे रावणाऽज्ञया । स रथेनाऽभिदुद्राव जुघुरे चाऽतिभैरवम् ॥
Metre: अनुष्टुप्
पस्पन्दे तस्य वामाऽक्षि सस्यमुश्चाऽशिवाः खगाः । तान्वव्राजाऽवमत्याऽसौ बभासे च रणे शरैः ॥
Metre: अनुष्टुप्
खमूयुर्वसुधामूवुः सायका रज्जु-वत्तताः । तस्माद्बलैरपत्रेपे पुप्रोथाऽस्मै न कश्चन ॥
Metre: अनुष्टुप्
स भस्म-साच्चकाराऽरीन्दुदाव च कृतान्त-वत् । चुक्रोध मारुतिस्ताल- मुच्चख्ने च महा-शिखम् ॥
Metre: अनुष्टुप्
यमायाऽकम्पनं तेन निरुवाप महा-पशुम् । बभ्रज्ज निहते तस्मिन्शोको रावणमग्निवत् ॥
Metre: अनुष्टुप्
स बिभ्रेष प्रचुक्षोद दन्तैरोष्ठं चखाद च । प्रगोपायांचकाराऽऽशु यत्नेन परितः पुरम् ॥
Metre: अनुष्टुप्
प्रहस्तमर्थयांचक्रे योद्धुमद्भुत-विक्रमम्। । "किं विचारेण रजेन्द्र ! युद्धाऽर्था वयमित्य्सौ" ॥
Metre: अनुष्टुप्
चक्वाणाऽशङ्कितो योद्धुमुत्सेहे च महा-रथः । निर्येमिरेऽस्य योद्धारश्चक्wxल्क़्क़्पे चाऽश्व-कुञ्जरम् ॥
Metre: अनुष्टुप्
युयुजुः स्यन्दनानश्वैरीजुर्देवान्पुरोहिताः ।आनर्चुर्ब्राह्मणान्सम्यगाशिषश्चाऽऽशशंसिरे ॥
Metre: अनुष्टुप्