ऊहिरे मूर्ध्नि सिद्धार्था गावश्चाऽऽलेभिरे भटैः । प्रचुक्ष्णुवुर्महाऽस्त्राणि जिज्ञासांचक्रिरे हयान् ॥
Metre: अनुष्टुप्
ललुः खड्गान्ममार्जुश्च ममृजुश्च परश्वधान् । "अलंचक्रे समालेभे ववसे बुभुजे पपे ॥
Metre: अनुष्टुप्
जहसे च क्षणं यानैर्निर्जग्मे योद्धृभिस्ततः । विप्रान्प्रहस्त आनर्च जुहाव च विभावसुम् ॥
Metre: अनुष्टुप्
संवर्गयांचकाराऽऽप्तान्चन्दनेन लिलेप च । चचाम मधु मार्द्वीकं त्वक्-त्रं चाऽऽचकचे वरम् ॥
Metre: अनुष्टुप्
उष्णीषं मुमुचे चारु रथं च जुजुषे शुभम् ।आललम्बे महाऽस्त्राणि गन्तुं प्रववृते ततः ॥
Metre: अनुष्टुप्
आजघ्नुस्तूर्य-जातानि तुष्टुवुश्चाऽनुजीविनः । रजः प्रववृधे घोरं घोषश्च व्यानशे दिशः ॥
Metre: अनुष्टुप्
तं यान्तं दुद्रुवुर्गृध्राः क्रव्यादश्च सिषेविरे ।आववुर्वायवो घोराः खादुल्काश्च प्रचक्षरुः ॥
Metre: अनुष्टुप्
सस्यन्दे शोणितं व्योम रणाऽङ्गानि प्रजज्वलुः । रथाः प्रचस्खलुः साऽश्वा न ररंहाऽ-श्वकुञ्जरम् ॥
Metre: अनुष्टुप्
प्रतोदा जगलुर्वाममानञ्चुर्यज्ञिया मृगाः । ददाल भूः पुपूरे द्यौः कपीनामपि निःस्वनैः ॥
Metre: अनुष्टुप्
मिमेह रक्तं हस्त्यश्वं राक्षसाश्च नितिष्ठिवुः । ततः शुशुभतुः सेने निर्-दयं च प्रजह्रतुः ॥
Metre: अनुष्टुप्