समीरयांचकाराऽथ राक्षसस्य कपिः शिलाम् । क्षतस्तया ममाराऽसावाशिश्राय च भू-तलम् ॥
Metre: अनुष्टुप्
तुतुषुर्वानराः सर्वे नेशुश्चित्रा निशा-चराः । जेरुराशा दशास्यस्य सैन्यं नीलं नुनाव च ॥
Metre: अनुष्टुप्
यदा न फेलुः क्षणदा-चराणां मनोरथा राम-बलाऽभियोगे । लङ्कां तदा भेजुरुदीर्ण-दैन्या व्याचख्युरुच्चैश्च हतं प्रहस्तम् ॥
Metre: उपजातिः