समनात्सीत्ततः सैन्यममार्जीद्भल्ल-तोमरम् ।अमार्क्षीच्चाऽसिपत्राऽऽदीनबभासत्परश्वधान् ॥
Metre: अनुष्टुप्
कुम्भकर्ण-सुतौ तत्र समनद्धां महा-बलौ । निकुम्भश्चैव कुम्भश्च प्रापतां तौ प्लवङ्गमान् ॥
Metre: अनुष्टुप्
अगोपिष्टां पुरीं लङ्कामगौप्तां रक्षसां बलम् ।अत्याक्तामायुधाऽनीकमनैष्टां च क्षयं द्विषः ॥
Metre: अनुष्टुप्
अकोकूयिष्ट तत्सैन्यं प्रपलायिष्ट चाऽऽकुलम् ।अच्युतच्च क्षतं रक्तं हतं चाऽध्यशयिष्ट गाम् ॥
Metre: अनुष्टुप्
अङ्गदेनाऽहसातां तौ युध्यकम्पन-कम्पनौ ।अभ्यार्दीद्वालिनः पुत्रं प्रजङ्घोऽपि स-मत्सरः ॥
Metre: अनुष्टुप्
तस्याऽप्यबेभिदिष्टाऽसौ मूर्धानं मुष्टिनाऽङ्गदः ।अहार्षीच्च शिरः क्षिप्रं यूपाक्षस्य निराकुलः ॥
Metre: अनुष्टुप्
शरीरं लोहिताक्षस्य न्यभाङ्क्षीद्द्विविदस्तदा । क्रुद्धः कुम्भस्ततोऽभैत्सीन्मैन्दं स-द्विविदं शरैः ॥
Metre: अनुष्टुप्
आघूर्णिष्टां क्षतौ क्ष्मां च तावाशिश्रियतामुभौ। । मातुलौ विह्वलौ दृष्ट्वा कुम्भं वालि-सुतो नगैः ॥
Metre: अनुष्टुप्
प्रौर्णावीच्छर-वर्षेण तानप्रौहीन्निशा-चरः। । वानरानैजिहद्रामस्य तूर्णं रक्षितुमङ्गदम् ॥
Metre: अनुष्टुप्
द्रुतमत्रास्त सुग्रीवो भ्रातृव्यं षत्रु-संकटात् । मुष्टिना कौम्भकर्णिं च क्रुद्धः प्राणैरतित्यजत् ॥
Metre: अनुष्टुप्