"मा शोचिष्ट रघु-व्याघ्रौ नाऽमृषातामिति ब्रुवन् ।अवाबुद्ध स नीलाऽऽदीन्निहतान्कपि-यूथ-पान् ॥
Metre: अनुष्टुप्
तत्रैषज्जाम्बवान्प्राणीदुदमीलीच्च लोचने । पौलस्त्यं चाऽगदीत् "कच्चिदजीवीन्मारुताऽऽत्मजः।" ॥
Metre: अनुष्टुप्
तस्य क्षेमे महा-राज ! नाऽमृष्मह्यखिला वयम्। । पौलस्त्योऽशिश्रवत्तं च जीवन्तं पवनाऽऽत्मजम् ॥
Metre: अनुष्टुप्
आयिष्ट मारुतिस्तत्र तौ चाऽप्यहृषतां ततः । प्राहैष्टां हिमवत्-पृष्ठे सर्वौषधि-गिरिं ततः ॥
Metre: अनुष्टुप्
तौ हनूमन्तमानेतुमोषधीं मृत-जीविनीम् । सन्धान-करणीं चाऽन्यां वि-शल्य-करणीं तथा ॥
Metre: अनुष्टुप्
प्रोदपाति नभस्तेन स च प्रापि महा-गिरिः । यस्मिन्नज्वलिषू रात्रौ महौषध्यः सहस्र-शः ॥
Metre: अनुष्टुप्
निरचायि यदा भेदो नौषधीनां हनू-मता । सर्व एव समाहारि तदा शैलः महौषधिः ॥
Metre: अनुष्टुप्
प्राणिषुर्निहताः केचित्केचित्तु प्रोदमीलिषुः । तमोऽन्येऽहासिषुर्योधा व्यजृम्भिषत चाऽपरे ॥
Metre: अनुष्टुप्
अजिघ्रपंस्तथैवाऽन्यानोषधीरालिपंस्तथा ।एवं तेऽचेतिषुः सर्वे वीर्यं चाऽधिषताऽधिकम् ॥
Metre: अनुष्टुप्
अजिह्लदत्स काकुत्स्थौ शेषांश्चाऽजीजिवत्कपीन् । हनूमानथ ते लङ्का- मग्निनाऽदीदिपन्द्रुतम् ॥
Metre: अनुष्टुप्